व्याप्तचराचरभावविशेषं
चिन्मयमेकमनन्तमनादिम् |
भैरवनाथमनाथशरण्यं
त्वन्मयचित्ततया हृदि वन्दे || १ ||
त्वन्मयमेतदशेषमिदानीं
भाति मम त्वदनुग्रहशक्त्या |
त्वं च महेश सदैव ममात्मा
स्वात्ममयं मम तेन समस्तम् || २ ||
स्वात्मनि विश्वग(ये )ते त्वयि नाथे
तेन न संसृतिभीतिकथास्ति |
सत्स्वपि दुर्धरदुःखविमोह-
त्रासविधायिषु कर्मगणेषु || ३ ||
अन्तक मां प्रति मा दृशमेनां
क्रोधकरालतमां विनिधेहि |
शङ्करसेवनचिन्तनधीरो
भीषण भैरव शक्तिमयोऽस्मि || ४ ||
इत्थमुपोढभवन्मयसंवि-
द्दीधितिदारितभूरितमिस्रः |
मृत्युयमान्तककर्मपिशाचै-
र्नाथ नमोऽस्तु न जातु बिभेमि || ५ ||
प्रोदितसत्यविबोधमरीचि-
प्रेक्षितविश्वपदार्थसतत्त्वः |
भावपरामृतनिर्भरपूर्णे
त्वय्यहमात्मनि निर्वृतिमेमि || ६ ||
मानसगोचरमेति यदैव
क्लेशदशाऽतनुतापविधात्री |
नाथ तदैव मम त्वदभेद-
स्तोत्रपरामृतवृष्टिरुदेति || ७ ||
शङ्कर सत्यमिदं व्रतदान-
स्नानतपो भवतापविदारि |
तावकशास्त्रपरामृतचिन्ता
स्यन्दति चेतसि निर्वृतिधाराम् || ८ ||
नृत्यति गायति हृष्यति गाढं
संविदियं मम भैरवनाथ |
त्वां प्रियमाप्य सुदर्शनमेकं
दुर्लभमन्यजनैः समयज्ञम् || ९ ||
वसुरसपौषे कृष्णदशम्यां
अभिनवगुप्तः स्तवमिममकरोत् |
येन विभुर्भवमरुसन्तापं
शमयति झटिति जनस्य दयालुः || १० ||