अष्टोत्तरशतस्थानेष्वाविर्भूतं जगत्पतिम्।
नमामि जगतामीशं नारायणमनन्यधीः॥१॥
श्रीवैकुण्ठे वासुदेवमामोदे कर्षणाह्वयम्।
प्रद्युम्नं च प्रमोदाख्ये सम्मोदे चानिरुद्धकम्॥२॥
सत्यलोके तथा विष्णुं पद्माक्षं सूर्यमण्डले।
क्षीराब्धौ शेषशयनं श्वेतद्वीपेतु तारकम्॥३॥
नारायणं बदर्याख्ये नैमिषे हरिमव्ययम्।
शालग्रामं हरिक्षेत्रे अयोध्यायां रघूत्तमम्॥४॥
मथुरायां बालकृष्णं मायायां मधुसूदनम्।
काश्यां तु भोगशयनमवन्त्यामवनीपतिम्॥५॥
द्वारवत्यां यादवेन्द्रं व्रजे गोपीजनप्रियम्।
वृन्दावने नन्दसूनुं गोविन्दं कालियह्रदे॥६॥
गोवर्धने गोपवेषं भवघ्नं भक्तवत्सलम्।
गोमन्तपर्वते शौरिं हरिद्वारे जगत्पतिम्॥७॥
प्रयागे माधवं चैव गयायां तु गदाधरम्।
गङ्गासागरगे विष्णुं चित्रकूटे तु राघवम्॥८॥
नन्दिग्रामे राक्षसघ्नं प्रभासे विश्वरूपिणम्।
श्रीकूर्मे कूर्ममचलं नीलाद्रौ पुरुषोत्तमम्॥९॥
सिंहाचले महासिंहं गदिनं तुलसीवने।
घृतशैले पापहरं श्वेताद्रौ सिंहरूपिणम्॥१०॥
योगानन्दं धर्मपुर्यां काकुले त्वान्ध्रनायकम्।
अहोबिले गारुडाद्रौ हिरण्यासुरमर्दनम्॥११॥
विट्ठलं पाण्डुरङ्गे तु वेङ्कटाद्रौ रमासखम्।
नारायणं यादवाद्रौ नृसिंहं घटिकाचले॥१२॥
वरदं वारणगिरौ काञ्च्यां कमललोचनम्।
यथोक्तकारिणं चैव परमेशपुराश्रयम्॥१३॥
पाण्डवानां तथा दूतं त्रिविक्रममथोन्नतम्।
कामासिक्यां नृसिंहं च तथाष्टभुजसज्ञकम्॥१४॥
मेघाकारं शुभाकारं शेषाकारं तु शोभनम्।
अन्तरा शितिकण्ठस्य कामकोट्यां शुभप्रदम्॥१५॥
कालमेघं खगारूढं कोटिसूर्यसमप्रभम्।
दिव्यं दीपप्रकाशं च देवानामधिपं मुने॥१६॥
प्रवालवर्णं दीपाभं काञ्च्यामष्टादशस्थितम्।
श्रीगृध्रसरसस्तीरे भान्तं विजयराघवम्॥१७॥
वीक्षारण्ये महापुण्ये शयानं वीरराघवम्।
तोताद्रौ तुङ्गशयनं गजार्तिघ्नं गजस्थले॥१८॥
महाबलं बलिपुरे भक्तिसारे जगत्पतिम्।
महावराहं श्रीमुष्णे महीन्द्रे पद्मलोचनम्॥१९॥
श्रीरङ्गे तु जगन्नाथं श्रीधामे जानकीप्रियम्।
सारक्षेत्रे सारनाथं खण्डने हरचापहम्॥२०॥
श्रीनिवासस्थले पूर्णं सुवर्णं स्वर्णमन्दिरे।
व्याघ्रपुर्यां महाविष्णुं भक्तिस्थाने तु भक्तिदम्॥२१॥
श्वेतह्रदे शान्तमूर्तिमग्निपुर्यां सुरप्रियम्।
भर्गाख्यं भार्गवस्थाने वैकुण्ठाख्ये तु माधवम्॥२२॥
पुरुषोत्तमे भक्तसखं चक्रतीर्थे सुदर्शनम्।
कुम्भकोणे चक्रपाणिं भूतस्थाने तु शार्ङ्गिणम्॥२३॥
कपिस्थले गजार्तिघ्नं गोविन्दं चित्रकूटके।
अनुत्तमं चोत्तमायां श्वेताद्रौ पद्मलोचनम्॥२४॥
पार्थस्थले परब्रह्म कृष्णाकोट्यां मधुद्विषम्।
नन्दपुर्यां महानन्दं वृद्धपुर्यां वृषाश्रयम्॥२५॥
असङ्गं सङ्गमग्रामे शरण्ये शरणं महत्।
दक्षिणद्वारकायां तु गोपालं जगतां पतिम्॥२६॥
सिंहक्षेत्रे महासिंहं मल्लारिं मणिमण्डपे।
निबिडे निबिडाकारं धानुष्के जगदीश्वरम्॥२७॥
मौहूरे कालमेघं तु मधुरायां तु सुन्दरम्।
वृषभाद्रौ महापुण्ये परमस्वामिसज्ञकम्॥२८॥
श्रीमद्वरगुणे नाथं कुरुकायां रमासखम्।
गोष्ठीपुरे गोष्ठपतिं शयानं दर्भसंस्तरे॥२९॥
धन्विमङ्गलके शौरिं बलाढ्यं भ्रमरस्थले।
कुरङ्गे तु तथा पूर्णं कृष्णामेकं वटस्थले॥३०॥
अच्युतं क्षुद्रनद्यां तु पद्मनाभमनन्तके।
एतानि विष्णोः स्थानानि पूजितानि महात्मभिः॥३१॥
अधिष्ठितानि देवेश तत्रासीनं च माधवम्।
यः स्मरेत्सततं भक्त्या चेतसानन्यगामिना॥३२॥
स विधूयातिसंसारबन्धं याति हरेः पदम्।
अष्टोत्तरशतं विष्णोः स्थानानि पठता स्वयम्॥३३॥
अधीताः सकला वेदाः कृताश्च विविधा मखाः।
सम्पादिता तथा मुक्तिः परमानन्ददायिनी॥३४॥
अवगाढानि तीर्थानि ज्ञातः स भगवान् हरिः।
आद्यमेतत्स्वयं व्यक्तं विमानं रङ्गसज्ञकम्।
श्रीमुष्णं वेङ्कटाद्रिं च शालग्रामं च नैमिषम्॥३५॥
तोताद्रिं पुष्करं चैव नरनारायणाश्रमम्।
अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले॥३६॥
॥इति श्रीविष्णोरष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम्॥